Saturday, December 17, 2011

श्रीराजानकानन्दवर्धनाचार्यविरचितो ध्वन्यालोकः सहृदयालोकः।

శ్రీరాజానక ఆనందవర్ధనాచార్యవిరచిత ధ్వన్యాలోకం (సహృదయాలోకం / కావ్యాలోకం) .
॥ प्रथमोद्द्योतः ॥ ప్రథమోద్ద్యోతము.

काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तं आहुस्तं अन्ये ।
केचिद्वाचां स्थितं अविषये तत्त्वं ऊचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥ कारिका_1.1 ॥

కావ్యముయొక్క ఆత్మ ధ్వని అని బుధులచే(పండితులచే) ఏది పూర్వం చెప్పబడినదో, కొందరు దాని అభావమును చెప్పినారు. ఇతరులు భాక్తముగా (గౌణముగా) చెప్పుచున్నారు. మరికొందరు వాక్కులయొక్క అవిషయమునందు ఉన్నదానిగా దానికి సంబంధించిన తత్త్వమును చెప్పిరి. అందుచే సహృదయుల మనోప్రీతికై దాని స్వరూపమును చెప్పుచున్నాము.

योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः ।
वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥ कारिका_1.2 ॥

ఏ అర్థము సహృదయశ్లాఘ్యమై కావ్యాత్మయని వ్యవస్థమైనదో, వాచ్యము-ప్రతీయమానములుగా దాని భేదములు రెండు స్మరించబడినవి.

तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः  ।
बहुधा व्याकृतः सोऽन्यैः ततो नेह प्रतन्यते ॥ कारिका_1.3 ॥

అక్కడ వాచ్యము ప్రసిద్ధమై, ఏది ఉపమాదిప్రకారములచే, ఇతరులచే, బహుధా వివరించబడినదో, అందువలన అది ఇక్కడ విశేషించబడదు.

प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् ।
यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यं इवाङ्गनासु ॥ कारिका_1.4 ॥

ప్రతీయమానమైనది, ఇంకా, మరొకటి వస్తువిశేషమున్నది, మహాకవులవాక్కులందు. ఎలాగయితే ప్రసిధ్ధములైన అవయవములకంటే భిన్నమైన లావణ్యం అంగనలయందు భాసిస్తున్నట్లు.

काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा ।
क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वं आगतः ॥ कारिका_1.5 ॥

కావ్యముయొక్క ఆత్మ,ఆ అర్థవిశేషమే. అట్టివిధముగనే, ఆదికవియొక్క, పూర్వం రెండుక్రౌంచపక్షులవియోగమందు కల్గిన శోకమే, శ్లోకత్వాన్ని పొందెను.

सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् ।
अलोकसामान्यं अभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ कारिका_1.6 ॥

మధురమైన ఆ అర్థవిశేషమగు వస్తువును స్రవిస్తున్న మహాకవులయొక్క సరస్వతి, అలోకసామాన్యమై, అంతటాప్రకాశిస్తున్న ప్రతిభావిశేషమును ప్రకటిస్తున్నది.

शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते ।
वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ कारिका_1.7 ॥

శబ్దార్థశాసన జ్ఞానముచేతనే తెలియబడదు. అది కేవలం కావ్యార్థ తత్త్వజ్ఞులచే మాత్రమే తెలియబడుచున్నది.

सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन ।
यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ कारिका_1.8 ॥

ఆ అర్థవిశేషమూ, ఆ వ్యంగ్యసామర్థ్యముగల్గిన ఒకానొక శబ్దవిశేషమూ; ఆ రెండు శబ్దార్థాలు, మహాకవికి యత్నమువలన, ఎఱుగవలసినవి.

आलोकार्थी यथा दीपशिखायां यत्नवाञ् जनः ।
तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ कारिका_1.9 ॥

వెలుతురును కోరే జనుడు, ఎలాగైతే దీపశిఖయందు యత్నిస్తాడో; అందు ఆదరము కల్గినవాడు, అట్టి ఉపాయముచేతనే వాచ్యమైన అర్థవిశేషమునందు (యత్నిస్తాడు).

यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते ।
वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ कारिका_1.10 ॥

ఎట్లైతే, పదాల అర్థాలద్వారా వాక్యార్థం తెలియబడునో; అట్లే వాచ్యార్థపూర్వకమై, ఆ వస్తువిశేష జ్ఞానం (కల్గును).

स्वसामर्थ्यवशेनैव वाक्यार्थं प्रतिपादयन् ।
यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ कारिका_1.11 ॥

తన సామర్థ్యవశముచేతనే వాక్యార్థమును ప్రతిపాదిస్తున్న పదార్థము, ఎట్లైతే వ్యాపారనిష్పత్తియందు వేరుగా తెలియబడదో...
तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनां ।
बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥ कारिका_1.12 ॥

అట్లే, ఆ అర్థ విశేషమే, వాచ్యార్థ విముఖాత్ములైన సహృదయులయొక్క తత్త్వార్థదర్శినీయగు బుద్ధియందు, వెంటనే భాసిస్తుంది.

यत्रार्थः शब्दो वा तं अर्थं उपसर्जनीकृतस्वार्थौ ।
व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ कारिका_1.13 ॥

ఎచట, అర్థవిశేషమో(వాచ్యమో) శబ్దవిశేషమో(వాచకమో), ఉపసర్జనీకృతములైన తానూ అర్థమూ కలవై, ఆ (వ్యంగ్య) అర్థమును వ్యంజింపచేయునట్టియగు కావ్యవిశేషము ధ్వని యని పండితులచే చెప్పబడినది.

भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः ।
अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ कारिका_1.14 ॥

उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् ।
शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयीभवेत्॥ कारिका_1.15 ॥

रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि ।
लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ कारिका_1.16 ॥

मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनं ।
यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ कारिका_1.17 ॥

वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता ।
व्यञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥ कारिका_1.18 ॥

कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणं ।
लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥ कारिका_1.19 ॥

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्द्योतः ।


॥ द्वितीयोद्द्योतः ॥

अर्थान्तरे सङ्क्रमितं अत्यन्तं वा तिरस्कृतं ।
अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ कारिका_2.1 ॥

असंलक्ष्यक्रमोद्द्योतः क्रमेण द्योतितः परः ।
विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ कारिका_2.2 ॥

रसभावतदाभासतत्प्रशान्त्यादिरक्रमः ।
ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ कारिका_2.3 ॥

वाच्यवाचकचारुत्वहेतूनां विविधात्मनां ।
रसादिपरता यत्र स ध्वनेर्विषयो मतः ॥ कारिका_2.4 ॥

प्रधान्येऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः ।
काव्ये तस्मिन्नलङ्कारो रसादिरिति मे मतिः ॥ कारिका_2.5 ॥

तं अर्थं अवलम्बन्ते येऽङ्गिनं ते गुणाः स्मृताः ।
अङ्गाश्रितास्त्वलङ्कारा मन्तव्याः कटकादिवत्॥ कारिका_2.6 ॥

शृङ्गार एव मधुरः परः प्रह्लादनो रसः ।
तन्मयं काव्यं आश्रित्य माधुर्यं प्रतितिष्ठति ॥ कारिका_2.7 ॥

शृङ्गारे विप्रलम्भाख्ये करुणे च प्रकर्षवत् ।
माधुर्यं आर्द्रतां याति यतस्तत्राधिकं मनः ॥ कारिका_2.8 ॥

रौद्रादयो रसा दीप्त्या लक्ष्यन्ते काव्यवर्तिनः ।
तद्व्यक्तिहेतू शब्दार्थावाश्रित्यौजो व्यवस्थितम् ॥ कारिका_2.9 ॥

समर्पकत्वं काव्यस्य यत्तु सर्वरसान्प्रति ।
स प्रसादो गुणो ज्ञेयः सर्वसाधारणक्रियः ॥ कारिका_2.10 ॥

श्रुतिदुष्टादयो दोषा अनित्या ये च दर्शिताः ।
ध्वन्यात्मन्येव शृङ्गारे ते हेया इत्युदाहृताः ॥ कारिका_2.11 ॥

तस्याङ्गानां प्रभेदा ये प्रभेदाः स्वगताश्च ये ।
तेषामानन्त्यमन्योन्यसम्बन्धपरिकल्पने ॥ कारिका_2.12 ॥

दिङ्मात्रं तूच्यते येन व्युत्पन्नानां सचेतसां ।
बुद्धिरासादितालोका सर्वत्रैव भविष्यति ॥ कारिका_2.13 ॥

शृङ्गारस्याङ्गिनो यत्नादेकरूपानुबन्धवान् ।
सर्वेष्वेव प्रभेदेषु नानुप्रासः प्रकाशकः ॥ कारिका_2.14 ॥

ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनं ।
शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥ कारिका_2.15 ॥

रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
अपृथग्यत्ननिर्वत्यः सोऽलङ्कारो ध्वनौ मतः ॥ कारिका_2.16 ॥

ध्वन्यात्मभूते शृङ्गारे समीक्ष्य विनिवेशितः ।
रूपकादिरलङ्कारवर्ग एति यथार्थताम् ॥ कारिका_2.17 ॥

विवक्षा तत्परत्वेन नाङ्गित्वेन कदाचन ।
काले च ग्रहणत्यागौ नातिनिर्वहणैषिता ॥ कारिका_2.18 ॥

निर्व्यूढावपि चाङ्गत्वे यत्नेन प्रत्यवेक्षणं ।
रूपकादिरलङ्कारवर्गस्याङ्गत्वसाधनम् ॥ कारिका_2.19 ॥

क्रमेण प्रतिभात्यात्मा योऽस्यानुस्वानसन्निभः ।
शब्दार्थशक्तिमूलत्वात्सोऽपि द्वेधा व्यवस्थितः ॥ कारिका_2.20 ॥

आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते ।
यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः ॥ कारिका_2.21 ॥

अर्थशक्त्युद्भवस्त्वन्यो यत्रार्थः स प्रकाशते ।
यस्तात्पर्येण वस्त्वन्यद्व्यनक्त्युक्तिं विना स्वतः ॥ कारिका_2.22 ॥

शब्दार्थशक्त्या क्षिप्तोऽपि व्यङ्ग्योऽर्थः कविना पुनः ।
यत्राविष्क्रियते स्वोक्त्या सान्यैवालङ्कृतिर्ध्वनेः ॥ कारिका_2.23 ॥

प्रौढोक्तिमात्रनिष्पन्नशरीरः सम्भवी स्वतः ।
अर्थोऽपि द्विविधो ज्ञेयो वस्तुनोऽन्यस्य दीपकः ॥ कारिका_2.24 ॥

अर्थशक्तेरलङ्कारो यत्राप्यन्यः प्रतीयते ।
अनुस्वानोपमव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥ कारिका_2.25 ॥

रूपकादिरलङ्कारवर्गो यो वाच्यतां श्रितः ।
स सर्वो गम्यमानत्वं बिभ्रद्भूम्ना प्रदर्शितः ॥ कारिका_2.26 ॥

अलङ्कारान्तरस्यापि प्रतीतौ यत्र भासते ।
तत्परत्वं न वाच्यस्य नासौ मार्गो ध्वनेर्मतः ॥ कारिका_2.27 ॥

शरीरीकरणं येषां वाच्यत्वे न व्यवस्थितं ।
तेऽलङ्काराः परां छायां यान्ति ध्वन्यङ्गतां गतः ॥ कारिका_2.28 ॥

व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तया ।
ध्रुवं ध्वन्यङ्गता तासाम् काव्यवृत्तिस्तदाश्रया ॥ कारिका_2.29 ॥

अलङ्कारान्तरव्यङ्ग्यभावे ध्वन्यङ्गता भवेत् ।
चारुत्वोत्कर्षतो व्यङ्ग्यप्राधान्यं यदि लक्ष्यते ॥ कारिका_2.30 ॥

यत्र प्रतीयमानोऽर्थः प्रम्लिष्टत्वेन भासते ।
वाच्यस्याङ्गतया वापि नास्यासौ गोचरो ध्वनेः ॥ कारिका_2.31 ॥

अव्युत्पत्तेरशक्तेर्वा निबन्धो यः स्खलद्गतेः ।
शब्दस्य स च न ज्ञेयः सूरिभिर्विषयो ध्वनेः ॥ कारिका_2.32 ॥

सर्वेष्वेव प्रभेदेषु स्फुटत्वेनावभासनं ।
यद्व्यङ्ग्यस्याङ्गिभूतस्य तत्पूर्णं ध्वनिलक्षणम् ॥ कारिका_2.33 ॥

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके द्वितीय उद्द्योतः ।


॥ तृतीयिद्द्योतः ॥

अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्यङ्ग्यस्य च ध्वनेः ॥ कारिका_3.1 ॥

यस्त्वलक्ष्यक्रमव्यङ्ग्यो ध्वनिर्वर्णपदादिषु ।
वाक्ये सङ्घटनायां च स प्रबन्धेऽपि दीप्यते ॥ कारिका_3.2 ॥

शषौ सरेफसंयोगो ढकारश्चापि भूयसा ।
विरोधिनः स्युः शृङ्गारे ते न वर्णा रसच्युतः ॥ कारिका_3.3 ॥

त एव तु निवेश्यन्ते बीभत्सादौ रसे यदा ।
तदा तं दीपयन्त्येव ते न वर्णा रसच्युतः ॥ कारिका_3.4 ॥

असमासा समासेन मध्यमेन च भूषिता ।
तथा दीर्घसमासेति त्रिधा सङ्घटनोदिता ॥ कारिका_3.5 ॥

गुणानाश्रित्य तिष्ठन्ती माधुर्यादीन्व्यनक्ति सा ।
रसान् तन्नियमे हेतुरौचित्यं वक्तृवाच्ययोः ॥ कारिका_3.6 ॥

विषयाश्रयं अप्यन्यदौचित्यं तां नियच्छति ।
काव्यप्रभेदाश्रयतः स्थिता भेदवती हि सा ॥ कारिका_3.7 ॥

एतद्यथोक्तं औचित्यं एव तस्या नियामकं ।
सर्वत्र गद्यबन्धेऽपि छन्दोनियमवर्जिते ॥ कारिका_3.8 ॥

रसबन्धोक्तं औचित्यं भाति सर्वत्र संश्रिता ।
रचना विषयापेक्षं तत्तु किंचिद्विभेदवत्॥ कारिका_3.9 ॥

विभावभावानुभावसञ्चार्यौचित्यचारुणः ।
विधिः कथाशरीरस्य वृत्तस्योत्प्रेक्षितस्य वा ॥ कारिका_3.10 ॥

इतिवृत्तवशायातां त्यक्त्वाननुगुणां स्थितिं ।
उत्प्रेक्ष्याप्यन्तराभीष्टरसोचितकथोन्नयः ॥ कारिका_3.11 ॥

सन्धिसन्ध्यङ्गघटनं रसाभिव्यक्त्यपेक्षया ।
न तु केवलया शास्त्रस्थितिसम्पादनेच्छया ॥ कारिका_3.12 ॥

उद्दीपनप्रशमने यथावसरं अन्तरा ।
रसस्यारब्धविश्रान्तेरनुसन्धानं अङ्गिनः ॥ कारिका_3.13 ॥

अलङ्कृतीनां शक्तावप्यानुरूप्येण योजनं ।
प्रबन्धस्य रसादीनां व्यञ्जकत्वे निबन्धनम् ॥ कारिका_3.14 ॥

अनुस्वानोपमात्मापि प्रभेदो य उदाहृतः ।
ध्वनेरस्य प्रबन्धेषु भासते सोऽपि केषुचित्॥ कारिका_3.15 ॥

सुप्तिङ्वचनसम्बन्धैस्तथा कारकशक्तिभिः ।
कृत्तद्धितसमासैश्च द्योत्योऽलक्ष्यक्रमः क्वचित्॥ कारिका_3.16 ॥

प्रबन्धे मुक्तके वापि रसादीन्बन्धुं इच्छता ।
यत्नः कार्यः सुमतिना परिहारे विरोधिनाम् ॥ कारिका_3.17 ॥

विरोधिरससम्बन्धिविभावादिपरिग्रहः ।
विस्तरेणान्वितस्यापि वस्तुनोऽन्यस्य वर्णनम् ॥ कारिका_3.18 ॥

अकाण्ड एव विच्छित्तिरकाण्डे च प्रकाशनं ।
परिपोषं गतस्यापि पौनःपुन्येन दीपनं ।
रसस्य स्याद्विरोधाय वृत्त्यनौचित्यं एव च ॥ कारिका_3.19 ॥

विवक्षिते रसे लब्धप्रतिष्ठे तु विरोधिनां ।
बाध्यानां अङ्गभावं वा प्राप्तानां उक्तिरच्छला ॥ कारिका_3.20 ॥

प्रसिद्धेऽपि प्रबन्धानां नानारसनिबन्धने ।
एको रसोऽङ्गीकर्तव्यस्तेषां उत्कर्षं इच्छता ॥ कारिका_3.21 ॥

रसान्तरसमावेशः प्रस्तुतस्य रसस्य यः ।
नोपहन्त्यङ्गितां सोऽस्य स्थायित्वेनावभासिनः ॥ कारिका_3.22 ॥

कार्यं एकं यथा व्यापि प्रबन्धस्य विधीयते ।
तथा रसस्यापि विधौ विरोधो नैव विद्यते ॥ कारिका_3.23 ॥

अविरोधी विरोधी वा रसोऽङ्गिनि रसान्तरे ।
परिपोषं न नेतव्यस्तथा स्यादविरोधिता ॥ कारिका_3.24 ॥

विरुद्धैकाश्रयो यस्तु विरोधी स्थायिनो भवेत् ।
स विभिन्नाश्रयः कार्यस्तस्य पोषेऽप्यदोषता ॥ कारिका_3.25 ॥

एकाश्रयत्वे निर्दोषो नैरन्तर्ये विरोधवान् ।
रसान्तरव्यवधिना रसो व्यङ्ग्यः सुमेधसा ॥ कारिका_3.26 ॥

रसान्तरान्तरितयोरेकवाक्यस्थयोरपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ॥ कारिका_3.27 ॥

विरोधं अविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस्तु शृङ्गारे सुकुमारतमा ह्यसौ ॥ कारिका_3.28 ॥

अवधानातिशयवान्रसे तत्रैव सत्कविः ।
भवेत्तस्मिन्प्रमादो हि झटित्येवोपलक्ष्यते ॥ कारिका_3.29 ॥

विनेयानुन्मुखीकर्तुं काव्यशोभार्थं एव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ॥ कारिका_3.30 ॥

विज्ञायेत्थं रसादीनां अविरोधविरोधयोः ।
विषयं सुकविः काव्यं कुर्वन्मुह्यति न क्वचित्॥ कारिका_3.31 ॥

वाच्यानां वाचकानां च यदौचित्येन योजनं ।
रसादिविषयेणैतत्कर्म मुख्यं महाकवेः ॥ कारिका_3.32 ॥

रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥ कारिका_3.33 ॥

प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते ।
यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत्॥ कारिका_3.34 ॥

प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः ।
ये च तेषु प्रकारोऽयं एव योज्याः सुमेधसा ॥ कारिका_3.35 ॥

वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशानुगमे सति ।
प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते ॥ कारिका_3.36 ॥

मुख्या महाकविगिरां अलङ्कृतिभृतां अपि ।
प्रतीयमानच्छायैषा भूषा लज्जेव योषिताम् ॥ कारिका_3.37 ॥

अर्थान्तरगतिः काक्वा या चैषा परिदृश्यते ।
सा व्यङ्ग्यस्य गुणीभावे प्रकारं इमं आश्रिता ॥ कारिका_3.38 ॥

प्रभेदस्यास्य विषयो यश्च युक्त्या प्रतीयते ।
विधातव्या सहृदयैर्न तत्र ध्वनियोजना ॥ कारिका_3.38 ॥

प्रकारोऽयं गुणीभूतव्यङ्ग्योऽपि ध्वनिरूपतां ।
धत्ते रसादितात्पर्यपर्यालोचनया पुनः ॥ कारिका_3.40 ॥

प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थिते ।
काव्ये उभे ततोऽन्यद्यत्तच्चित्रं अभिधीयते ॥ कारिका_3.41 ॥

चित्रं शब्दार्थभेदेन द्विविधं च व्यवस्थितं ।
तत्र किंचिच्छब्दचित्रं वाच्यचित्रं अतः परम् ॥ कारिका_3.42 ॥

सगुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः ।
सङ्करसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥ कारिका_3.43 ॥

एवं ध्वनेः प्रभेदाः प्रभेदभेदाश्च केन शक्यन्ते ।
सङ्ख्यातुं दिङ्मात्रं तेषां इदं उक्तं अस्माभिः ॥ कारिका_3.44 ॥

इत्युक्तलक्षणो यो ध्वनिर्विवेच्यः प्रयत्नतः सद्भिः
सत्काव्यं कर्तुं वा ज्ञातुं वा सम्यगभियुक्तैः ॥ कारिका_3.45 ॥

अस्फुटस्फुरितं काव्यतत्त्वं एतद्यथोदितं ।
अशक्नुवद्भिर्व्याकर्तुं रीतयः सम्प्रवर्तिताः ॥ कारिका_3.46 ॥

शब्दतत्त्वाश्रयाः काश्चिदर्थतत्त्वयुजोऽपराः ।
वृत्तयोऽपि प्रकाशन्ते ज्ञातेऽस्मिन्काव्यलक्षणे ॥ कारिका_3.47 ॥

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके तृतीय उद्द्योतः ।


॥ चतुर्थोद्द्योतः ॥

ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः ।
अनेनानन्त्यं आयाति कवीनां प्रतिभागुणः ॥ कारिका_4.1 ॥

अतो ह्यन्यतमेनापि प्रकारेण विभूषिता ।
वाणी नवत्वं आयाति पूर्वार्थान्वयवत्यपि ॥ कारिका_4.2 ॥

युक्त्यानयानुसर्तव्यो रसादिर्बहुविस्तरः ।
मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात्॥ कारिका_4.3 ॥

दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् ।
सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः ॥ कारिका_4.4 ॥

व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि ।
रसादिमय एकस्मिन्कविः स्यादवधानवान् ॥ कारिका_4.5 ॥

ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् ।
न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः ॥ कारिका_4.6 ॥

अवस्थादेशकालादिविशेषैरपि जायते ।
आनन्त्यं एव वाच्यस्य शुद्धस्यापि स्वभावतः ॥ कारिका_4.7 ॥

अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनं ।
भूम्नैव दृश्यते लक्ष्ये तत्तु भाति रसाश्रयात्॥ कारिका_4.8 ॥

रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी ।
अन्वीयते वस्तुगतिर्देशकालादिभेदिनी ॥ कारिका_4.9 ॥

वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः ।
निबद्धा सा क्षयं नैति प्रकृतिर्जगतां इव ॥ कारिका_4.10 ॥

संवादास्तु भवन्त्येव बाहुल्येन सुमेधसां ।
नैकरूपतया सर्वे ते मन्तव्या विपश्चिता ॥ कारिका_4.11 ॥

संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् ।
आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् ॥ कारिका_4.12 ॥

तत्र पूर्वं अनन्यात्म तुच्छात्म तदनन्तरं ।
तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः ॥ कारिका_4.13 ॥

आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि ।
वस्तु भातितरां तन्व्याः शशिच्छायं इवाननम् ॥ कारिका_4.14 ॥

अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी ।
नूतने स्फुरति काव्यवस्तुनि व्यक्तं एव खलु सा न दुष्यति ॥ कारिका_4.15 ॥

यदपि तदपि रम्यं यत्र लोकस्य किंचित्
स्फुरितं इदं इतीयं बुद्धिरभ्युज्जिहीते ।
अनुगतं अपि पूर्वच्छायया वस्तु तादृक्
सुकविरुपनिबध्नन्निन्द्यतां नोपयाति ॥ कारिका_4.16 ॥

प्रतीयन्तां वाचो निमितविविधार्थामृतरसा
न सादः कर्तव्यः कविभिरनवद्ये स्वविषये ।
परस्वादानेच्छाविरतमनसो वस्तु सुकवेः
सरस्वत्येवैषा घटयति यथेष्टं भगवती ॥ कारिका_4.17 ॥

इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः ।

Sunday, December 11, 2011

पाणिनीय-शिक्षा


अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।
शास्त्रानुपूर्व्यं तद्विद्याद्यथोक्तं लोकवेदयोः ॥१॥

प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥२॥

त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः सम्भवतो मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥३॥

स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमः स्मृताः ॥४॥

अनुस्वारो विसर्गश्च )( क )( पौ चापि पराश्रितौ ।
दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च ॥५॥

आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥६॥

मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।
प्रातःसवनयोगं तं छन्दोगायत्रमाश्रितम् ॥७॥

कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥८॥

सोदीर्णो मूर्ध्न्यभिहतो वक्‍त्रमापद्य मारुतः ।
वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥९॥

स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तं निबोधत ॥१०॥

उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥११॥

उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ ।
स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥१२॥

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥१३॥

ओभावश्च विवृत्तिश्च शषसा रेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥१४॥

यद्योभावप्रसन्धानमुकारादिपरं पदम् ।
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥१५॥

हकारं पञ्चमयैर्युक्तमन्तःस्थाभिश्च संयुतम् ।
औरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥१६॥

कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्धन्या ऋटुरषा दन्त्या लृतुलसाः स्मृताः ॥१७॥

जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः ।
ए ऐ तु कण्ठतालव्या ओ औ कण्ठोष्ठजौ स्मृतौ ॥१८॥

अर्धमात्रा तु कण्ठ्यस्य ह्येकारौकारयोर्भवेत् ।
ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥१९॥

संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् ।
घोषा वा संवृतः सर्वे अघोषा विवृताः स्मृताः ॥२०॥

स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥२१॥

अनुस्वारयमानां च नासिका स्थानमुच्यते ।
उपध्मानीय ऊष्मा च जिह्वामूलीयनासिके ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥२२॥

अलाबुवीणानिर्घोषो दन्तमूल्यः स्वरानुगः ।
अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च ॥२३॥

अनुस्वारे विवृत्त्यां तु विरामे चाक्षरद्वये ।
द्विरोष्ठौ तु विगृह्णीयाद्यत्रौकारवकारयोः ॥२४॥

व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥२५॥

यथा सौराष्ट्रिका नारी तक्राँ इत्यभिभाषते ।
एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ॥२६॥

रङ्गवर्णं प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् ।
दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥२७॥

हृदये चैकमात्रस्तु अर्धमात्रस्तु मूर्धनि ।
नासिकायां त्वथार्धं च रङ्गस्यैव द्विमात्रता ॥२८॥

हृदयादुत्कटे तिष्ठन्कांस्येन स्वमनुस्वरन् ।
मार्दवं च हिमात्रं च जघन्वाँ२ इति निदर्शनम् ॥२९॥

मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समो भवेत् ।
सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥३०॥

एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः ।
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥३१॥

गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥३२॥

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः ॥३३॥

शङ्कितं भीतमुद्घुष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरसिगं तथा स्थानविवर्जितम् ॥३४॥

उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् ।
निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ॥३५॥

प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन ।
मध्यन्दिने कण्ठगतेन चैव चक्राह्वसंकूजितसन्निभेन ॥३६॥

तारं तु विद्यात्सवने तृतीये शिरोगतं तच्च सदा प्रयोज्यम् ।
मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥३७॥

अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥३८॥

ञमोऽनुनासिका नह्रो नादिनो हझषः स्मृताः ।
ईष्न्नादा यणो जश्च श्वासिनस्तु खफादयः ॥३९॥

ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते ।
दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि ॥४०॥

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥४१॥

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥४२॥

उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा ।
उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥४३॥

उदात्तं प्रदेशिनीं विद्यात् प्रचयं मध्यतोऽङ्गुलिम् ।
निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥४४॥

अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।
मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥४५॥

अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती ।
अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तं प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥४६॥

हविषां मध्योदात्तं स्वरिति स्वरितं बृहस्पतिरिति ।
द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥४७॥

अनुदातो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः ।
स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥४८॥

चाषस्तु वदते मात्रां द्विमात्रं चैव वायसः ।
शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥४९॥

कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् ।
न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्विषात् ॥५०॥

सुतीर्थादागतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् ।
सुस्वरेण सुवक्‍त्रेण प्रयुक्तं ब्रह्म राजते ॥५१॥

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥५२॥

अवक्षरमनायुष्यं विस्वरं व्याधिपीडितम् ।
अक्षताशस्त्ररूपेण वज्रं पतति मस्तके ॥५३॥

हस्तहीनं योऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो वयोनिमधिगच्छति ॥५४॥

हस्तेन वेदं योऽधीते स्वरवर्णार्थसंयुतम् ।
ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥५५॥

शङ्करः शाङ्करीं प्रादाद्दक्षीपुत्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥५६॥

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥५७॥

येन धौता गिरः पुंसं विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥५८॥

अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥५९॥

त्रिनयनमुखनिःसृतामिमां य इह पठेत्प्रयतः सदा द्विजः ।
स भवति पशुपुत्रकीर्तिमान्सुखमतुलं च समश्नुते दिवि दिवीति ॥६०॥

English Translation: http://www.sanskrit.safire.com/pdf/PSHIKSHA.PDF

Saturday, December 10, 2011

श्रीमत्पिङ्गलाचार्य विरचितं छन्दश्शास्त्रम् ।


శ్రీమద్ పిఙ్గళాచర్య విరచిత ఛన్దశ్శాస్త్రము.

अथ प्रथमोध्यायः । ప్రథమోధ్యాయము.

1. धी श्री स्त्री म्
ధీ శ్రీ స్త్రీ -->; "గురు-గురు-గురు" = "మ"గణం. మూడు గురువులు.
2. वरा सा य्
వరా సా  --> "లఘు-గురు-గురు" = "య"గణం. ఆది లఘువు.
3. का गृहा र्
కా గృహా --> "గురు-లఘు-గురు" = "ర" గణం. మధ్య లఘువు.
4. वसुधा स्
వసుధా  --> "లఘు-లఘు-గురు" = "స"గణం. అన్త్య గురువు.
5. सा ते क्व त्
సా తే క్వ --> "గురు-గురు-లఘు" = "త"గణం. అన్త్య లఘువు.
6. कदा स ज्
కదా స --> "లఘు-గురు-లఘు" = "జ"గణం.  మధ్య గురువు.
7. किं वद भ्
కిం వద --> "గురు-లఘు-లఘు" = "భ"గణం.  ఆది గురువు.
8. न हस न्
న హస --> "లఘు-లఘు-లఘు" = "న"గణం.  మూడు లఘువులు.
9.गृ ल्
గృ లఘువగును. "ల్" లఘు వాచకం. "గృ" హ్రస్వాక్షర సూచకం.
10. न्ते ।
(లఘువు) పాదాంతమునందు గురువుగును. "గ్" గురువాచకం.
1-10 సూత్రములందు ఉల్లిఖితమైన అక్షరాలను ఈ క్రింది క్రమంలో వ్రాసినచో, గణవాచక సంజ్ఞలు సులభమగును. य मा ता रा ज भा न स ल गं ను మాత్రానిర్దేశము చేసినచో "ల.గు.గు.గు.ల.గు.ల.ల.ల.గు." అగును. ఇందు,  ప్రతీ అక్షరమూ, తనతో పరమందున్న రెండక్షరములతో కలిపి గణవాచకమును తెలుపును. ఉదా, మాతా లో మొదటి అక్షరం = "య్"; యమాతా --> ల.గు.గు. --> "య"గణం. మాతారా లో మొదటి అక్షరం = "మ్"; మాతారా --> గు.గు.గు. --> "మ" గణం. మొ॥

11. ध्रादिपरः ।
 ధ్రాదులు పరముగానున్నది (గురువు). "ధ్ర" అక్షరం, వ్యంజన సంయోగలక్షణ సూచకం. "ఆది" పదముతో, విసర్గ-అనుస్వార-జిహ్వామూలీయ-ఉపధ్మానీయములను గ్రహించాలి. సంయుక్తాక్షరములు, విసర్గ-అనుస్వార-జిహ్వామూలీయ-ఉపధ్మానీయములు పరముగా ఉన్న అక్షరములూ గురువులే.
12. हे ।
"హే" "గ్" అగును. "హే" ద్విమాత్రోచ్ఛారణ సూచకం. అట్టి దీర్ఘాక్షరములు గురువులగును.
13. लौ सः ।
అది (గురువు) రెండు "ల్"లు. గురువు రెండు మాత్రలు కల్గినదై, రెండు లఘువులుగా గణింపవలెను.
14. ग्लौ ।
"గ్", "ల్" లు. ఇది అధికార సూత్రం. ప్రత్యేకించి చెప్పబడనప్పుడు (ప్లుతమును గాక) గురు-లఘువులనే గ్రహింపవలెను.
15. अष्टौ वसव इति ॥
వసువులనగా ఎనిమిది అని. ఈ ఛందశ్శాస్త్రమందు, (అష్ట)వసువులుగా చెప్పబడిన చోట, ఈ ఎనిమిది గురు-లఘు స్వరూప వర్ణములు గ్రహింపవలెను. "ఇతి" శబ్దం ప్రథమాధ్యాయ సమాప్తసూచకం కూడా.

విశేషములుః

धी श्री स्त्री । वरा सा । का गृहा । वसुधा । सा ते क्व । कदा स । किं वद । न हस । गृ । गन्ते । ध्रादिपरः । हे । लौ सः । ग्लौ । अष्टौ वसव इति ।

अध्ययनात् "धी" भवति । यस्य "धीः" तस्य "श्रीः", बुद्धिपूर्वकत्वात् विभूते । यस्य "श्रीः", तस्य "स्त्री", अर्थमूलकत्वात् गार्हस्थस्य । "वरा सा" इति अनेन सर्वेषां स्त्री साधनोपायानां बुद्धेः उपायस्य माहात्म्यं दर्शयति । तथा च उक्तम् -

अर्थोङ्गुलपरीणाहजिह्वाग्रायासभीरवः ।
सर्वाङ्गीणपरिक्लेशमबुधाः कर्म कुर्वते ॥

तत्राह शिष्यः - का गृहा ?
आचार्यः - वसुधा
शिष्यः - सा ते क्व ?
आचार्यः - गृहे
शिष्यः - कदा सः?
आचार्यः - ध्रादिपरः
शिष्यः - किं वद ?
आचार्यः - न हसन्

इति प्रथमोध्यायः । ఇట్లు ప్రథమోధ్యాయము.

अथ द्वितियोऽध्यायः । ద్వితీయోऽధ్యాయము.
1. छन्दः ।
శాస్త్రపరిసమాప్తి వరకు అధికార సూత్రం. ఛన్దః శబ్దముతో సంఖ్యావాచకం గ్రహింపవలెను.
2. गायत्री ।
గాయత్రీ (తదుపరి  12 సూత్రములవరకూ). అధికార సూత్రం.
3. दैव्येकम् ।
(గాయత్రీ) దైవమందు ఒకటి.
4. आसुरी पञ्चदश ।
(గాయత్రీ)  ఆసురమందు పదిహేను.
5. प्राजापत्याष्टौ ।
(గాయత్రీ)  ప్రజాపతియందు ఎనిమిది.
6. यजुषां षट् ।
(గాయత్రీ)  యజుస్సునందు ఆఱు.
7. साम्नां द्विः ।
(గాయత్రీ)  సామమందు రెండింతలు (యజుస్సునకు)
8. ऋचां त्रिः ।
(గాయత్రీ)  ఋక్కులందు మూడింతలు (యజుస్సునకు)
9. द्वौ द्वौ साम्नां वर्धेत ।
(గాయత్రీ) సామమందు  రెండురెండుగా పెరుగును.
10. त्रींस्त्रीनृचाम् ।
(గాయత్రీ) ఋక్కులందు  మూడుమూడుగా (పెరుగును)
11. चतुरश्चतुरः प्राजापत्यायाः ।
(గాయత్రీ)  ప్రజాపతికి నాలుగునాలుగుగా (పెరుగును)
12. एकैकं शेषे ।
(గాయత్రీ) ఒక్కొక్కటిగా మిగిలినవాటియందు (పెరుగుచుండును)
13. जह्यादासुरी ।
ఆసురీ  (ఒక్కటి చొప్పున) తగ్గును.
14. तान्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यः ।
అవి (పెరుగుట తరుగుట క్రమం, గాయత్రీ తర్వాత)  "ఉష్ణిగ్, అనుష్టుబ్, బృహతీ, పఙ్క్తి, త్రిష్టుబ్, జగతీ"లు
15. तिस्रस्तिस्रः सनाम्न्य एकैका ब्राह्म्यः ।
(పైన చెప్పిన) మూడుమూడులు (యజుః+సామ+ఋక్) ఒక్కొక్క బ్రాహ్మ్యమందు (తగును)
16. प्रग्यजुषामार्ष्य इति ।
యజుస్సునకు ముందున్నవి ఆర్ష్యమగును.

పైన చెప్పబడిన వివరములు, క్రింది పట్టికలో అమర్చబడినవి...



इति द्वितियोऽध्यायः ।

अथ तृतीयोऽध्यायः ।  తృతీయోऽధ్యాయము.
1. पादः ।
2. इयादिपूरणः ।
3. गायर्त्या वसवः ।
4. जगत्याः आदित्याः ।
5. विराजो दिशः ।
6. त्रिष्टुभो रुद्राः ।
7. एकद्वित्रिचतुष्पादुक्तपादम् ।
8.

Saturday, December 3, 2011

Laghu Siddhanta Kaumudi - 1

लघुसिद्धान्तकौमुद्याः सञ्ज्ञा सन्धि प्रकरणानि ।



क्र. सू.क्र. सूत्रम् प्रकरणम् वृत्तिः
0 0 अइउण् । ऋऌक् । एओङ् । ऐऔच् । हयवरट् । लँण् । ञमङणनम् । झभञ् । घढधष् । जबगडदश् । खफछठथचटतव् । कपय् । शषसर् । हल् । सञ्ज्ञा इति महेश्वराणि सूत्राणी अणादि सञ्ज्ञार्थानि । एषामन्त्या इतः । हकारादिषु अकार उच्चारणार्थः । लण्मध्ये तु इत्सञ्ज्ञकः ।
1 1.3.3 हलन्त्यम् । सञ्ज्ञा उपदेशेऽन्‍त्‍यं हलित्‍स्‍यात् । उपदेश आद्योच्‍चारणम् । सूत्रेष्‍वद्ृष्‍टं पदं सूत्रान्‍तरादनुवर्तनीयं सर्वत्र ।।
2 1.1.60 अदर्शनं लोपः । सञ्ज्ञा प्रसक्तस्‍यादर्शनं लोपसंज्ञं स्‍यात् ।
3 1.3.9 तस्य लोपः । सञ्ज्ञा तस्‍येतो लोपः स्‍यात् । णादयोऽणाद्यर्थाः ।
4 1.1.71 आदिरन्त्येन सहेता । सञ्ज्ञा अन्‍त्‍येनेता सहित आदिर्मध्‍यगानां स्‍वस्‍य च संज्ञा स्‍यात् यथाऽणिति अ इ उ वर्णानां संज्ञा । एवमच् हल् अलित्‍यादयः ।।
5 1.2.27 ऊकालोऽज्झ्रस्वदीर्घप्लुतः । सञ्ज्ञा उश्‍च ऊश्‍च ऊ३श्‍च वः; वां कालो यस्‍य सोऽच् क्रमाद् ह्रस्‍वदीर्घप्‍लुतसंज्ञः स्‍यात् । स प्रत्‍येकमुदात्तादि भेदेन त्रिधा ।
6 1.2.29 उच्चैरुदात्तः । सञ्ज्ञा ताल्वाद्विस्थानेषु ऊर्ध्वभागे निष्पन्नः अच् उदात्तः ।
7 1.2.30 नीचैरनुदात्तः । सञ्ज्ञा ताल्वाद्विस्थानेषु अधोभागे निष्पन्नः अच् अनुदात्तः ।
8 1.2.31 समाहारः स्वरितः । सञ्ज्ञा स नवविधोऽपि प्रत्‍येकमनुनासिकत्‍वाननुनासिकत्‍वाभ्‍यां द्विधा ।।
9 1.1.8 मुखनासिकावचनोऽनुनासिकः । सञ्ज्ञा मुखसहितनासिकयोच्‍चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्‍यात् । तदित्‍थम् – अ इ उ ऋ एषां वर्णानां प्रत्‍येकमष्‍टादश भेदाः । लृवर्णस्‍य द्वादश, तस्‍य दीर्घाभावात् । एचामपि द्वादश, तेषां ह्रस्‍वाभावात् ।।
10 1.1.9 तुल्यास्यप्रयत्नं सवर्णम् । सञ्ज्ञा ताल्‍वादिस्‍थानमाभ्‍यन्‍तरप्रयत्‍नश्‍चेत्‍येतद्द्वयं यस्‍य येन तुल्‍यं तन्‍मिथः सवर्णसंज्ञं स्‍यात् । (ऋलृवर्णयोर्मिथः सावण्‍र्यं वाच्‍यम्) । अकुहविसर्जनीयानां कण्‍ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लृतुलसानां दन्‍ताः । उपूपध्‍मानीयानामोष्‍ठौ । ञमङणनानां नासिका च । एदैैतोः कण्‍ठतालु । ओदौैतोः कण्‍ठोष्‍टम् । वकारस्‍य दन्‍तोष्‍ठम् । जिह्‍वामूलीयस्‍य जिह्‍वामूलम् । नासिकाऽनुस्‍वारस्‍य । यत्‍नोे द्विधा – आभ्‍यन्‍तरो बाह्‍यश्‍च । आद्यः पञ्चधा – स्‍पृष्‍टेषत्‍स्‍पृष्‍टेषद्विवृतविवृतसंवृत भेदात् । तत्र स्‍पृष्‍टं प्रयतनं स्‍पर्शानाम् । ईषत्‍स्‍पृष्‍टमन्‍तःस्‍थानाम् । ईषद्विवृतमूष्‍मणाम् । विवृतं स्‍वराणाम् । ह्रस्‍वस्‍यावर्णस्‍य प्रयोगे संवृतम् । प्रक्रियादशायां तु विवृतमेव । बाह्‍यप्रयत्‍नस्‍त्‍वेकादशधा – विवारः संवारः श्‍वासो नादो घोषोऽघोषोऽल्‍पप्राणोमहाप्राण उदात्तोऽनुदात्तः स्‍वरितश्‍चेति । खरो विवाराः श्वासा अघोषाश्‍च । हशः संवारा नादा घोषाश्‍च । वर्गाणां प्रथमतृतीयपञ्चमा यणश्‍चाल्‍पप्राणाः । वर्गाणां द्वितीयचतुर्थौ शलश्‍च महाप्राणाः । कादयो मावसानाः स्‍पर्शाः । यणोऽन्‍तःस्‍थाः । शल ऊष्‍माणः । अचः स्‍वराः । -क-ख इति कखाभ्‍यां प्रगर्धविसर्गसद्ृशो जिह्‍वामूलीयः । -प-फ इति पफाभ्‍यां प्रागर्धविसर्गसद्ृश उपध्‍मानीयः । अं अः इत्‍यचः परावनुस्‍वारविसर्गौ ।।
11 1.1.69 अणुदित् सवर्णस्य चाप्रत्ययः । सञ्ज्ञा प्रतीयते विधीयत इति प्रत्‍ययः । अविधीयमानोऽणुदिच्‍च सवर्णस्‍य संज्ञा स्‍यात् । अत्रैवाण् परेण णकारेण । कु चु टु तु पु एते उदितः । तदेवम् – अ इत्‍यष्‍टादशानां संज्ञा । तथेकारोकारौ । ऋकारस्‍त्रशिंतः । एवं लृकारोऽपि । एचो द्वादशानाम् । अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्‍ते द्वयोर्द्वयोस्‍संज्ञा ।
12 1.4.109 परः सन्निकर्षः संहिता । सञ्ज्ञा वर्णानामतिशयितः संनिधिः संहितासंज्ञः स्‍यात् ।।
13 1.4.14 सुप्तिङन्तं पदम् । सञ्ज्ञा सुबन्‍तं तिङन्‍तं च पदसंज्ञं स्‍यात् ।।
14 1.1.7 हलोऽनन्तराः संयोगः । सञ्ज्ञा अज्‍भिरव्‍यवहिता हलः संयोगसंज्ञाः स्‍युः ।।
15 1.4.10 ह्रस्वं लघु । सञ्ज्ञा  
16 1.4.11 संयोगे गुरु । सञ्ज्ञा  
17 1.4.12 दीर्घं च । सञ्ज्ञा दीर्घं च गुरुसञ्ज्ञं स्यात् ।
18 1.1.49 षष्ठी स्थानेयोगा । अच्‍सन्‍धिः अनिर्धारित सम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या स्थानं च प्रसङ्गः ।
19 1.1.66 तस्मिन्निति निर्दिष्टे पूर्वस्य । अच्‍सन्‍धिः सप्‍तमीनिर्देशेन विधीयमानं कार्यं वर्णान्‍तरेणाव्‍यवहितस्‍य पूर्वस्‍य बोध्‍यम् ।।
20 6.1.72 संहितायाम् । अच्‍सन्‍धिः इत्यधिकृत्य ।
21 6.1.77 इको यणचि । अच्‍सन्‍धिः इकः स्‍थाने यण् स्‍यादचि संहितायां विषये । सुधी उपास्‍य इति स्‍थिते ।।
22 1.1.50 स्थानेऽन्तरतमः । अच्‍सन्‍धिः प्रसङ्गे सति सदृशतम आदेशः स्‍यात् । सुध्‍य् उपास्‍य इति जाते ।।
23 8.4.47 अनचि च । अच्‍सन्‍धिः अचः परस्‍य यरो द्वे वा स्‍तो न त्‍वचि । इति धकारस्‍य द्वित्‍वेन सुध्‍ध्‍य् उपास्‍य इति जाते ।।
24 8.4.53 झलां जश् झशि । अच्‍सन्‍धिः स्‍पष्‍टम् । इति पूर्वधकारस्‍य दकारः ।।
25 8.2.23 संयोगान्तस्य लोपः । अच्‍सन्‍धिः संयोगान्‍तं यत्‍पदं तदन्‍तस्‍य लोपः स्‍यात् ।।
26 1.1.52 अलोऽन्त्यस्य । अच्‍सन्‍धिः षष्‍ठीनिर्दिष्‍टोऽन्‍त्‍यस्‍याल आदेशः स्‍यात् । इति यलोपे प्राप्‍ते – (यणः प्रतिषेधो वाच्‍यः) । सुद्ध्युपास्‍यः । मद्ध्‍व्‍ंरिः । धात्त्रंशः । लाकृतिः ।।
27 6.1.78 एचोऽयवायावः । अच्‍सन्‍धिः एचः क्रमादय् अव् आय् आव् एते स्‍युरचि ।।
28 1.3.10 यथासंख्यमनुदेशः समानाम् । अच्‍सन्‍धिः समसंबन्‍धी विधिर्यथासंख्‍यं स्‍यात् । हरये । विष्‍णवे । नायकः । पावकः ।।
29 6.1.79 वान्तो यि प्रत्यये । अच्‍सन्‍धिः यकारादौ प्रत्‍यये परे ओदौतोरव् आव् एतौ स्‍तः । गव्‍यम् । नाव्‍यम् । (अध्‍वपरिमाणे च) । गव्‍यूतिः ।।
30 1.1.2 अदेङ् गुणः । अच्‍सन्‍धिः अत् एङ् च गुणसंज्ञः स्‍यात् ।।
31 1.1.70 तपरस्तत्कालस्य । अच्‍सन्‍धिः तः परो यस्‍मात्‍स च तात्‍परश्‍चोच्‍चार्यमाणसमकालस्‍यैव संज्ञा स्‍यात् ।।
32 6.1.87 आद्गुणः । अच्‍सन्‍धिः अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्‍यात् । उपेन्‍द्रः । गङ्गोदकम् ।।
33 1.3.2 उपदेशेऽजनुनासिक इत् । अच्‍सन्‍धिः उपदेशेऽनुनासिकोऽजित्‍संज्ञः स्‍यात् । प्रतिज्ञानुनासिक्‍याः पाणिनीयाः । लण्‍सूत्रस्‍थावर्णेन सहोच्‍चार्यमाणो रेफो रलयोः संज्ञा ।।
34 1.1.51 उरण् रपरः । अच्‍सन्‍धिः ऋ इति त्रिंशतः संज्ञेत्‍युक्तम् । तत्‍स्‍थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्‍णर्द्धिः । तवल्‍कारः ।।
35 8.3.19 लोपः शाकल्यस्य । अच्‍सन्‍धिः अवर्णपूर्वयोः पदान्‍तयोर्यवयोर्लोपो वाऽशि परे ।।
36 8.2.1 पूर्वत्रासिद्धम् । अच्‍सन्‍धिः सपादसप्‍ताध्‍यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्‍त्रमसिद्धम् । हर इह, हरयिह । विष्‍ण इह, विष्‍णविह ।।
37 1.1.1 वृद्धिरादैच् । अच्‍सन्‍धिः आदैच्‍च वृद्धिसंज्ञः स्‍यात् ।।
38 6.1.88 वृद्धिरेचि । अच्‍सन्‍धिः आदेचि परे वृद्धिरेकादेशः स्‍यात् । गुणापवादः । कृष्‍णैकत्‍वम् । गङ्गौघः । देवैश्वर्यम् । कृष्‍णौत्‍कण्‍ठ्यम् ।।
39 6.1.89 एत्येधत्यूठ्सु । अच्‍सन्‍धिः अवर्णादेजाद्योरेत्‍येधत्‍योरूठि च परे वृद्धिरेकादेशः स्‍यात् । उपैति । उपैधते । प्रष्‍ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्‍प्रेदिधत् । (अक्षादूहिन्‍यामुपसंख्‍यानम्) । अक्षौहिणी सेना । (प्रादूहोढोढ्येषैष्‍येषु) । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्‍यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । (प्रवत्‍सतरकम्‍बलवसनार्णदशानामृणे) । प्रार्णम्, वत्‍सतरार्णम्, इत्‍यादि ।।
40 1.4.59 उपसर्गाः क्रियायोगे । अच्‍सन्‍धिः प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्‍युः । प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप – एते प्रादयः ।।
41 1.3.1 भूवादयो धातवः । अच्‍सन्‍धिः क्रियावाचिनो भ्‍वादयो धातुसंज्ञाः स्‍युः ।।
42 6.1.91 उपसर्गादृति धातौ । अच्‍सन्‍धिः अवर्णान्‍तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्‍यात् । प्राच्‍र्छति ।।
43 6.1.94 एङि पररूपम् । अच्‍सन्‍धिः आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्‍यात् । प्रेजते । उपोषति ।।
44 1.1.64 अचोऽन्त्यादि टि । अच्‍सन्‍धिः अचां मध्‍ये योऽन्‍त्‍यः स आदिर्यस्‍य तट् टिसंज्ञं स्‍यात् । (शकन्‍ध्‍वादिषु पररूपं वाच्‍यम्) । तच्‍च टेः । शकन्‍धुः । कर्कन्‍धुः मनीषा । आकृतिगणोऽयम् । मार्त्तण्‍डः ।।
45 6.1.95 ओमाङोश्च । अच्‍सन्‍धिः ओमि आङि चात्‍परे पररूपमेकादेशः स्‍यात् । शिवाया� नमः । शिव एहि ।।
46 6.1.85 अन्तादिवच्च । अच्‍सन्‍धिः योऽयमेकादेशः स पूर्वस्‍यान्‍तवत्‍परस्‍यादिवत् । शिवेहि ।।
47 6.1.101 अकः सवर्णे दीर्घः । अच्‍सन्‍धिः अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्‍यात् । दैत्‍यारिः । श्रीशः । विष्‍णूदयः । होतॄकारः ।।
48 6.1.109 एङः पदान्तादति । अच्‍सन्‍धिः पदान्‍तादेङोऽति परे पूर्वरूपमेकादेशः स्‍यात् । हरेऽव । विष्‍णोऽव ।।
49 6.1.122 सर्वत्र विभाषा गोः । अच्‍सन्‍धिः लोके वेदे चैङन्‍तस्‍य गोरति वा प्रकृतिभावः पदान्‍ते । गोअग्रम्, गोऽग्रम् । एङन्‍तस्‍य किम् ? चित्रग्‍वग्रम् । पदान्‍ते किम्? गोः ।।
50 1.1.55 अनेकाल्शित्सर्वस्य । अच्‍सन्‍धिः इति प्राप्‍ते ।।
51 1.1.53 ङिच्च । अच्‍सन्‍धिः ङिदनेकालप्‍यन्‍त्‍यस्‍ययैव स्‍यात् ।।
52 6.1.123 अवङ् स्फोटायनस्य । अच्‍सन्‍धिः पदान्‍ते एङन्‍तस्‍य गोरवङ् वाऽचि । गवाग्रम्, गोऽग्रम् । पदान्‍ते किम् ? गवि ।।
53 6.1.124 इन्द्रे च (नित्यम्) । अच्‍सन्‍धिः गोरवङ् स्‍यादिन्‍द्रे । गवेन्‍द्रः ।।
54 8.2.84 दूराद्धूते च । अच्‍सन्‍धिः दूरात्‍सम्‍बोधने वाक्‍यस्‍य टेः प्‍लुतो वा ।।
55 6.1.125 प्लुतप्रगृह्या अचि नित्यम् । अच्‍सन्‍धिः एतेऽचि प्रकृत्‍या स्‍युः । आगच्‍छ कृष्‍ण ३ अत्र गौश्‍चरति ।।
56 1.1.11 ईदूदेद्द्विवचनं प्रगृह्यम् । अच्‍सन्‍धिः ईदूदेदन्‍तं द्विवचनं प्रगृह्‍यं स्‍यात् । हरी एतौ । विष्‍णू इमौ । गङ्गे अमू ।।
57 1.1.12 अदसो मात् । अच्‍सन्‍धिः अस्‍मात्‍परावीदूतौ प्रगृह्‍यौ स्‍तः । अमी ईशाः । रामकृष्‍णावमू आसाते । मात्‍किम् ? अमुकेऽत्र ।।
58 1.4.56 प्राग्रीश्वरान्निपाताः । अच्‍सन्‍धिः  
59 1.4.57 चादयोऽसत्त्वे । अच्‍सन्‍धिः अद्रव्‍यार्थाश्‍चादयो निपाताः स्‍युः ।।
60 1.4.58 प्रादयः । अच्‍सन्‍धिः एतेऽपि तथा ।।
61 1.1.14 निपात एकाजनाङ् । अच्‍सन्‍धिः एकोऽज् निपात आङ्वर्जः प्रगृह्‍यः स्‍यात् । इ इन्‍द्रः । उ उमेशः । ’वाक्‍यस्‍मरणयोरङित्; आ एवं नु मन्‍यसे । आ एवं किल तत् । अन्‍यत्र ङित् ; आ ईषदुष्‍णम् ओष्‍णम् ।।
62 1.1.15 ओत् । अच्‍सन्‍धिः ओदन्‍तो निपातः प्रगृह्‍यः स्‍यात् । अहो ईशाः ।।
63 1.1.16 सम्बुद्धौ शाकल्यस्येतावनार्षे । अच्‍सन्‍धिः सम्‍बुद्धिनिमित्तक ओकारो वा प्रगृह्‍योऽवैदिके इतौ परे । विष्‍णो इति, विष्‍ण इति, विष्‍णविति ।।
64 8.3.33 मय उञो वो वा । अच्‍सन्‍धिः मयः परस्‍य उञो वो वाऽचि । किम्‍वुक्तम्, किमु उक्तम् ।।
65 6.1.127 इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । अच्‍सन्‍धिः पदान्‍ता इको ह्रस्‍वा वा स्‍युरसवर्णेऽचि । ह्रस्‍वविधिसामथ्‍र्यान्न स्‍वरसन्‍धिः । चक्रि अत्र, चक्रय्‍त्र । पदान्‍ता इति किम् ? गौर्यौ -.
66 8.4.46 अचो रहाभ्यां द्वे । अच्‍सन्‍धिः अचः पराभ्‍यां रेफहकाराभ्‍यां परस्‍य यरो द्वे वा स्‍तः । गौय्‍र्यौ । (न समासे) । वाप्‍यश्वः ।।
67 6.1.128 ऋत्यकः । अच्‍सन्‍धिः ऋति परे पदान्‍ता अकः प्राग्‍वद्वा । ब्रह्‍म ऋषिः, ब्रह्‍मर्षिः । पदान्‍ताः किम् ? आर्छत् ।।
68 8.4.40 स्तोः श्चुना श्चुः । हल् सन्‍धिः सकारतवर्गयोः शकारचवर्गाभ्‍यां योगे शकारचवर्गौ स्‍तः । रामश्‍शेते । रामश्‍चिनोति । सच्‍चित् । शाङिर््गञ्जय ।।
69 8.4.44 शात्‌ । हल् सन्‍धिः शात्‍परस्‍य तवर्गस्‍य चुत्‍वं न स्‍यात् । विश्‍नः । प्रश्‍नः ।।
70 8.4.41 ष्टुना ष्टुः । हल् सन्‍धिः स्‍तोः ष्‍टुना योगे ष्‍टुः स्‍यात् । रामष्‍षष्‍ठः । रामष्‍टीकते । पेष्‍टा । तट्टीका । चक्रिण्‍ढौकसे ।।
71 8.4.42 न पदान्ताट्टोरनाम् । हल् सन्‍धिः पदान्‍ताट्टवर्गात्‍परस्‍यानामः स्‍तोः ष्‍टुर्न स्‍यात् । षट् सन्‍तः । षट् ते । पदान्‍तात्‍किम् ? ईट्टे । टोः किम् ? सर्पिष्‍टमम् । (अनाम्‍नवतिनगरीणामिति वाच्‍यम्) । षण्‍णवतिः । षण्‍णगय्‍र्यः ।।
72 8.4.43 तोः षि । हल् सन्‍धिः न ष्‍टुत्‍वम् । सन्‍षष्‍ठः ।।
73 8.2.39 झलां जशोऽन्ते । हल् सन्‍धिः पदान्‍ते झलां जशः स्‍युः । वागीशः ।।
74 8.4.45 यरोऽनुनासिकेऽनुनासिको वा । हल् सन्‍धिः यरः पदान्‍तस्‍यानुनासिके परेऽनुनासिको वा स्‍यात् । एतन्‍मुरारिः, एतद् मुरारिः । (प्रत्‍यये भाषायां नित्‍यम्) । तन्‍मात्रम् ।
75 8.4.60 तोर्लि । हल् सन्‍धिः तवर्गस्‍य लकारे परे परसवर्णः । तवर्गस्‍य लकारे परे परसवर्णः । तल्‍लयः । विद्वाँल्‍लिखति । नस्‍यानुनासिको लः ।
76 8.4.61 उदः स्थास्तम्भोः पूर्वस्य । हल् सन्‍धिः उदः परयोः स्‍थास्‍तम्‍भोः पूर्वसवर्णः ।।
77 1.1.67 तस्मादित्युत्तरस्य । हल् सन्‍धिः पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्‍तरेणाव्‍यवहितस्‍य परस्‍य ज्ञेयम् ।।
78 1.1.54 आदेः परस्य । हल् सन्‍धिः परस्‍य यद्विहितं तत्तस्‍यादेर्बोध्‍यम् । इति सस्‍य थः ।।
79 8.4.65 झरो झरि सवर्णे । हल् सन्‍धिः हलः परस्‍य झरो वा लोपः सवर्णे झरि ।।
80 8.4.55 खरि च । हल् सन्‍धिः खरि झलां चरः । इत्‍युदो दस्‍य तः । उत्‍थानम् । उत्तम्‍भनम् ।। .
81 8.4.62 झयो होऽन्यतरस्याम् । हल् सन्‍धिः झयः परस्‍य हस्‍य वा पूर्वसवर्णः । नादस्‍य घोषस्‍य संवारस्‍य महाप्राणस्‍य ताद्ृशो वर्गचतुर्थः । वाग्‍घरिः, वाग्‍हरिः ।।
82 8.4.63 शश्छोऽटि । हल् सन्‍धिः झयः परस्‍य शस्‍य छो वाऽटि । तद् शिव इत्‍यत्र दस्‍य श्‍चुत्‍वेन जकारे कृते खरि चेति जकारस्‍य चकारः । तच्‍छिवः, तच्‍शिवः । (छत्‍वममीति वाच्‍यम्) तच्‍छ्लोकेन ।।
83 8.3.23 मोऽनुस्वारः । हल् सन्‍धिः मान्‍तस्‍य पदस्‍यानुस्‍वारो हलि । हरिं वन्‍दे ।।
84 8.3.24 नश्चापदान्तस्य झलि । हल् सन्‍धिः नस्‍य मस्‍य चापदान्‍तस्‍य झल्‍यनुस्‍वारः । यशांसि । आक्रंस्‍यते । झलि किम् ? मन्‍यते ।।
85 8.4.58 अनुस्वारस्य ययि परसवर्णः । हल् सन्‍धिः स्‍पष्‍टम् । शान्‍तः ।।
86 8.4.59 वा पदान्तस्य । हल् सन्‍धिः त्‍वङ्करोषि, त्‍वं करोषि ।।
87 8.3.25 मो राजि समः क्वौ । हल् सन्‍धिः िक्‍वबन्‍ते राजतौ परे समो मस्‍य म एव स्‍यात् । सम्राट् ।।
88 8.3.26 हे मपरे वा । हल् सन्‍धिः मपरे हकारे परे मस्‍य मो वा । किम् ह्‍मलयति, किं ह्‍मलयति । (यवलपरे यवला वा)। किंय्�ँ ह्‍यः, किं ह्‍यः । किव्�ँ ह्‍वलयति, किं ह्‍वलयति । किल्�ँ ह्‍लादयति, किं ह्‍लादयति ।।
89 8.3.27 नपरे नः । हल् सन्‍धिः नपरे हकारे मस्‍य नो वा । किन् ह्‍नुते, किं ह्‍नुते ।।
90 8.3.29 डः सि धुट् । हल् सन्‍धिः डात्‍परस्‍य सस्‍य धुड्वा । षट्त्‍सन्‍तः, षट् सन्‍तः ।।
91 1.1.46 आद्यन्तौ टकितौ । हल् सन्‍धिः टित्‍कितौ यस्‍योक्तौ तस्‍य क्रमादाद्यन्‍तावयवौ स्‍तः ।।
92 8.3.30 नश्च । हल् सन्‍धिः नान्‍तात्‍परस्‍य सस्‍य धुड्वा । सन्‍त्‍सः, सन्‍सः ।।
93 8.3.28 ङ्णोः कुक्टुक् शरि । हल् सन्‍धिः वा स्‍तः । (चयो द्वितीयाः शरि पौष्‍करसादेरिति वाच्‍यम्) । प्राङ्ख् षष्‍ठः, प्राङ्क्षष्‍ठः, प्राङ् षष्‍ठः । सुगण्‍ठ् षष्‍ठः सुगण्‍ट् षष्‍ठः, सुगण् षष्‍ठः ।।
94 8.3.31 शि तुक् । हल् सन्‍धिः पदान्‍तस्‍य नस्‍य शे परे तुग्‍वा । सञ्छम्‍भुः, सञ्च्‍छम्‍भुः, सञ्च्‍शम्‍भुः, सञ्शम्‍भुः ।।
95 8.3.32 ङमो ह्रस्वादचि ङमुण्नित्यम् । हल् सन्‍धिः ह्रस्‍वात्‍परे यो ङम् तदन्‍तं यत्‍पदं तस्‍मात्‍परस्‍याचो ङमुट् । प्रत्‍यङ्ङात्‍मा । सुगण्‍णीशः । सन्नच्‍युतः ।।
96 8.3.5 समः सुटि । हल् सन्‍धिः समो रुः सुटि ।।
97 8.3.2 अत्रानुनासिकः पूर्वस्य तु वा । हल् सन्‍धिः अत्र रुप्रकरणे रोः पूर्वस्‍यानुनासिको वा ।।
98 8.3.4 अनुनासिकात्‌ परोऽनुस्वारः । हल् सन्‍धिः अनुनासिकं विहाय रोः पूर्वस्‍मात्‍परोऽनुस्‍वारागमः ।।
99 8.3.15 खरवसानयोर्विसर्जनीयः । हल् सन्‍धिः खरि अवसाने च पदान्‍तसाय रेफस्‍य विसर्गः । (संपुंकानां सो वक्तव्‍यः) । सँस्‍स्‍कर्ता, संस्‍स्‍कर्ता ।।
100 8.3.6 पुमः खय्यम्परे । हल् सन्‍धिः अम्‍परे खयि पुमो रुः । पुँस्‍कोकिलः, पुंस्‍कोकिलः ।।
101 8.3.7 नश्छव्यप्रशान् । हल् सन्‍धिः अम्‍परे छवि नान्‍तस्‍य पदस्‍यरुः; न तु प्रशान्‍शब्‍दस्‍य ।।
102 8.3.34 विसर्जनीयस्य सः । हल् सन्‍धिः खरि । चक्रिंस्‍त्रायस्‍व, चक्रिंस्‍त्रायस्‍व । अप्रशान् किम् ? प्रशान्‍तनोति । पदस्‍येति किम् ? हन्‍ति ।।
103 8.3.10 नॄन् पे । हल् सन्‍धिः नॄनित्‍यस्‍य रुर्वा पे ।।
104 8.3.37 कुप्वोः XकXपौ च । हल् सन्‍धिः कवर्गे पवर्गे च विसर्गस्‍य एक एपौ स्‍तः, चाद्विसर्गः । नॄँ ए पाहि, नॄः�ँ ए पाहि, नॄः�ंपाहि । नॄन्‍पाहि ।।
105 8.1.2 तस्य परमाम्रेडितम्‌ । हल् सन्‍धिः द्विरुक्तस्‍य परमाम्रेडितम् स्‍यात् ।।
106 8.3.12 कानाम्रेडिते । हल् सन्‍धिः कान्नकारस्‍य रुः स्‍यादाम्रेडिते । काँस्‍कान्, कांस्‍कान् ।।
107 6.1.73 छे च । हल् सन्‍धिः ह्रस्‍वस्‍य छे तुक् । शिवच्‍छाया ।।
108 6.1.76 पदान्ताद्वा । हल् सन्‍धिः दीर्घात् पदान्‍तात् छे तुग्‍वा । ल�मीच्‍छाया, ल�मी छाया ।।
109 8.3.34 विसर्जनीयस्य सः । विसर्गसन्‍धिः खरि । विष्‍णुस्‍त्राता ।।
110 8.3.36 वा शरि । विसर्गसन्‍धिः शरि विसर्गस्‍य विसर्गो वा । हरिः शेते, हरिश्‍शेते ।।
111 8.2.66 ससजुषो रुः । विसर्गसन्‍धिः पदान्‍तस्‍य सस्‍य सजुषश्‍च रुः स्‍यात् ।।
112 6.1.113 अतो रोरप्लुतादप्लुते । विसर्गसन्‍धिः अप्‍लुतादतः परस्‍य रोरुः स्‍यादप्‍लुतेऽति । शिवोऽच्‍र्यः ।।
113 6.1.114 हशि च । विसर्गसन्‍धिः तथा । शिवो वन्‍द्यः ।।
114 8.3.17 भोभगोअघोअपूर्वस्य योऽशि । विसर्गसन्‍धिः एतत्‍पूर्वस्‍य रोर्यादेशोऽशि । देवा इह, देवायिह । भोस् भगोस् अघोस् इति सान्‍ता निपाताः । तेषां रोर्यत्‍वे कृते ।।
115 8.3.22 हलि सर्वेषाम् । विसर्गसन्‍धिः भोभगोअघोअपूर्वस्‍य यस्‍य लोपः स्‍याद्धलि । भो देवाः । भगो नमस्‍ते । अघो याहि ।।
116 8.2.69 रोऽसुपि । विसर्गसन्‍धिः अह्‍नो रेफादेशो न तु सुपि । अहरहः । अहर्गणः ।।
117 8.3.14 रो रि । विसर्गसन्‍धिः रेफस्‍य रेफे परे लोपः ।।
118 6.3.111 ढ्रलोपे पूर्वस्य दीर्घोऽणः । विसर्गसन्‍धिः ढरेफयोर्लोपनिमित्तयोः पूर्वस्‍याणो दीर्घः । पुना रमते । हरी रम्‍यः । शम्‍भू राजते । अणः किम् ? तृढः । वृढः । मनस् रथ इत्‍यत्र रुत्‍वे कृते हशि चेत्‍युत्‍वे रोरीति लोपे च प्राप्‍ते ।।
119 1.4.2 विप्रतिषेधे परं कार्यम् । विसर्गसन्‍धिः तुल्‍यबलविरोधे परं कार्यं स्‍यात् । इति लोपे प्राप्‍ते । पूर्वत्रासिद्धमिति रोरीत्‍यस्‍यासिद्धत्‍वादुत्‍वमेव । मनोरथः ।।
120 6.1.132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि । विसर्गसन्‍धिः अककारयोरेतत्तदोर्यः सुस्‍तस्‍य लोपो हलि न तु नञ्समासे । एष विष्‍णुः । स शम्‍भुः । अकोः किम् ? एषको रुद्रः । अनञ्समासे किम् ? असः शिवः । हलि किम् ? एषोऽत्र ।।
121 6.1.134 सोऽचि लोपे चेत्‌ पादपूरणम् । विसर्गसन्‍धिः स इत्‍यस्‍य सोर्लोपः स्‍यादचि पादश्‍चेल्‍लोपे सत्‍येव पूय्‍र्येत । सेमामवििड्ढ प्रभृतिम् । सैष दाशरथी रामः ।।

Tuesday, September 27, 2011

veni samharam

नान्दी -

निषिद्धैरप्येभिर्लुलित मकरन्दो मधुकरैः
करैरिन्दोः अन्तश्छुरित इव सम्भिन्न मुकुलः ।
विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः
प्रकीर्णः पुष्पाणां हरिचरणयोः अञ्जलिरयम् ॥


कालिन्द्याः पुलिनेषु केलिकुपिताम् उत्सृज्य रासे रसं
गच्छन्तीम् अनुगच्छतोऽश्रुकलुषं कंसद्विषो राधिकम् ।
तत्पादप्रतिमा निवेशित पदस्योद्भूत रोमोद्गतेः
अक्षुण्णोऽनुनयः  प्रसन्न दयिता दृष्टस्य पुष्णातु वः ॥


दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमा्च्चासुरीभिः
शान्तान्तः तत्त्वसारैः सकरुणमृषिभिः विष्णुना सस्मितेन ।
आकृष्यास्त्रं सगर्वैः उपशमित वधू सम्भ्रमैः दैत्यवीरैः
सानन्दं देवताभिः मयपुरदहने धूर्जटिः पातु युष्मान् ॥


भीमसेनः --
चञ्चद्भुज भ्रमित चण्डगदाभिघात
सञ्चूर्णितोरु युगलस्य सुयोधनस्य ।
स्त्यानावनद्ध घनशोणित शोणपाणिः
उत्तंसयिष्यति कचांस्तव देवि भीमः ॥